Internet Journal of Jain Literature
जय जिनेन्द्र : चैत्यवन्दन विभाग

पार्श्वनाथ चैत्यवन्दन

	ॐ नमः पार्श्वनाथाय विश्वचिन्तामणीयते ।
	ह्रीँ धरणेन्द्र-वैरोट्या-पद्मादेवीयुताय ते । । १ । ।

	शान्ति-तुष्टि-महापुष्टि-धृति-कीर्तिविधायिने ।
	ओम ह्रीँ द्विड्-व्याल-वेताल-सर्वाधि-व्याधिनाशिने । । २ । ।

	जया-ऽजिताख्या-विजयाख्या-पराजितयान्वितः ।
	दिशांपालैर्ग्रहैर्यक्षैर्विद्यादेवीभिरन्वितः । । ३ । ।

	ॐ असिआउसा नमस्तत्र त्रैलोक्यनाथताम् ।
	चतुषष्टिः सुरेन्द्रास्ते भासन्ते छत्र-चामरैः । । ४ । ।

	श्रीशंखेश्वरमण्डन! पार्श्वजिन! प्रणतकल्पतरुकल्प! ।
	चूरय दुष्टव्रातं पूरय मे वांछितं नाथ! । । ५ । ।
	

— रचनाकार : पूर्वाचार्य

Our Concerns
Other useful stuff